A+ A A-

Bhajami Hatkeshwaram

Jai Hatkesh - is the symbol of us Nagars

  • The Kalam (pen) represents the intellect and scholarship of Nagars.
  • The Kadchhi (ladle or tool) represents the loyalty, service, and religious fervor of Nagars.
  • The Barchhi (small spear) represents the defense, dignity, and bold courage of Nagars. 

जटातटान्तरोल्लसत्सुरापगोर्मिभास्वरं
ललाटनेत्रमिन्दुना विराजमानशेखरम्।
लसद्विभुतिभुषितं फणीन्द्रहारमीश्वरं
नमामि नाटकेश्वरं भजामि हाटाकेश्वरम् ।।१।।

पुरान्धकादिदाहकं मनोभवप्रदाहकं
महधराशिनाशकम् भीप्सितार्थदायकम्।
जगत्रयैककार्कं विभारकं विदारकं
नमामि नाटकेश्वरं भजामि हाटाकेश्वरम् ।।२।।

मदीय मानस्थले सदास्तु ते पदद्वयं
मदीय वक्त्रपंकजे शिवेति चाक्षरद्वयम्।
मदीय लोचनाग्रतः सदाऽ्र्धचन्द्रविग्रह
नमामि नाटकेश्वरं भजामि हाटाकेश्वरम् ।।३।।

भजन्ति हाटकेश्वरं सुभक्तिभावेतोऽ्त्रये
भवन्ति हाटकेश्वराः प्रमाणमत्र नागराः
धनेन तेजसाऽ्धिका कुलेन चाखिलोन्नताः
नमामि नाटकेश्वरं भजामि हाटाकेश्वरम् ।।४।।

सदा शिवोऽ्हमित्य हर्निशं भजेत यो जनः
सदा शिवं करोति तं न संशयोऽ्त्र कश्चन।
अहो दयालुता महेश्वरस्य दॄश्यतां बुधाः
नमामि नाटकेश्वरं भजामि हाटाकेश्वरम् ।।५।।

धराधरात्मजापते त्रिलोचनेश शंकर
गिरीश चन्द्रशेखराहिराजभुशणेश्वर।
महेश नन्दिवाहनेति संटन्नहर्निशं
नमामि नाटकेश्वरं भजामि हाटाकेश्वरम् ।।६।।

महेश पाहि मं मुदा गिरीश पाहि मं सदा
भवार्णवे निमज्जत त्वमेव मेंऽ्सि तारकः।
करावलम्बनं झटित्यहोऽ्धुना प्रदीयतां
नमामि नाटकेश्वरं भजामि हाटाकेश्वरम् ।।७।।

धराधरेश्वश्वरं शिवं निधीश्वरेश्वरं
सुरासुरेश्व्रं रमापतीश्वरं महेश्वरे।
प्रचण्ड्चण्डिकेश्वरं विनीतनन्दिकेश्वरं
नमामि नाटकेश्वरं भजामि हाटाकेश्वरम् ।।८।।

हाटकेशस्य भक्तया यो हाटकेशाष्टकं पठेत।
हाटकेशप्रसादेन हाटकेश्न्वानुयात।।

Add comment


Security code
Refresh